वांछित मन्त्र चुनें

इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥

अंग्रेज़ी लिप्यंतरण

imāṁ tvam indra mīḍhvaḥ suputrāṁ subhagāṁ kṛṇu | daśāsyām putrān ā dhehi patim ekādaśaṁ kṛdhi ||

पद पाठ

इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ । दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥ १०.८५.४५

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:45 | अष्टक:8» अध्याय:3» वर्ग:28» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:45


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मीढ्वः-इन्द्र त्वम्) हे वीर्यसेचक ! ऐश्वर्यवन् ! तू (इमां सुपुत्रां सुभगां कृणु) इस वधू को शोभन पुत्रोंवाली अच्छी सोभाग्यवती कर (अस्यां दश पुत्रान्-आ धेहि) इस में दस पुत्रों का आधान कर (एकादशं पतिं कृधि) दश के ऊपर अपने को-पति को समझ ॥४५॥
भावार्थभाषाः - पति को चाहिए कि पत्नी को सौभाग्यपूर्ण प्रशस्त पुत्रोंवाली बनावे, दस पुत्रों को उत्पन्न करे, अधिक नहीं, अथवा दस बार गर्भाधान करे, अपने को ग्यारहवाँ पालक समझे ॥४५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मीढ्वः-इन्द्र त्वम्) हे वीर्यसेचक ! ऐश्वर्यवन् पते ! त्वम् (इमां सुपुत्रां सुभगां कृणु) एतां वधूं शोभनपुत्रयुक्तां शोभनभाग्यवतीं कुरु (अस्यां दश पुत्रान्-आ धेहि) अस्यां वध्वां दशसङ्ख्यापर्यन्तं पुत्रान्-आधत्स्व (एकादशं पतिं कृधि) दशोपरि स्वात्मानं पतिं जानीहि ॥४५॥